________________
२१४
चन्द्रराजचरित्रम् शिवकुमरनटोऽथ राजसंस
द्यगमदवाप्य नृपं जगौ च नत्वा । 'अपि जगति यशस्त्वदीयमुग्रं,
प्रसरति चन्द्रनिभं नृपाल ! विष्वक् ॥ २२१ ।। तव नगर विलोकनाय राज
ब्रहमगमं किल चन्द्रराजपुर्याः' । इति वचनमसौ निगद्य नाट्यं,
रचयितुमारभत प्रभोर्निदेशात् ।। २२२ ।। कुसुमनिचयमानिधाय तत्र,
प्रबलगुणं विनिवेश्य ताम्रचूडम् । अधिसभमवरोप्य वेणुदण्डं,
___ व्यतनुत भूरि नटः स्ववाद्यघोषम् ॥ २२३ ॥ शिवकुमरनटस्य पुत्रिका च',
तदुपरि सा शिवमालिकाऽऽरुरोह । बहुविधमकरोत् सुनर्तनं द्राक्,
विमलकला कुशला नृपादितुष्टयै ॥ २२४ ।। नृपतिरपि सुतामथाऽऽह्वयच्चा
वददिति 'चन्द्रनृपस्य राजधान्याः । अतिशयकुशलो नटः समागात्,
नटति तथाऽस्य सुताऽत्र वेणुसंस्था ।। २२५ ॥ क्षणमुपरितने क्षणं च तिर्यक्,
क्षणमथ कुक्कुटसन्निधौ क्षणं च । अतिमृदुलवचोभिरस्य कीर्ति,
नटतनया प्रजगौ विशिष्टरूपा' ।। २२६ ॥
१. ' ननाम हर्षात्' इति पाठा० ।। २. 'हि' इति पाठा० ।। ३. '-करोच्च नर्तनं सा' इति पाठा० ।। ४. 'स्म नटति चाऽस्य' इति पाठा० ।।