________________
सर्गः
(वसन्ततिलकावृत्तम् )
आलोक्य चन्द्रनृपतिः कृकवाकुरूपः,
स्वयां प्रियां सदसि राजसमीपसंस्थाम् ।
सोऽप्याननर्त नटवत् किल पञ्जरस्थः,
२१५
प्राप्तिः प्रियस्य विदधाति रसातिरेकम् ।। २२७ ।। दध्यौ च चेतसि वरं 'मम सा विमाता',
या मां व्यधात् खगमहं पुनरत्र चाऽऽगाम् । श्रीप्रेमलां निजवधूमवलोकयामि,
नो चेत् समागममहं कथमाप्स्यमस्याः || २२८ ।। कल्याणमस्तु नटराजवराय यो मा
मत्राऽऽनयत् सुयश एव सदा प्रगायन् । सुप्रातरद्य मम येन हि षोडशाब्दी
क्रान्तौ वधूं विमलकान्तिमिमां विलोके ॥ २२९ ।। मां प्रेमला यदि नटात् परिलभ्य पार्श्वे,
स्वे स्थापयेन्मम मनोरथ एव सिध्येत् । ऋज्वी च तस्य तनया वितरेत् सुखेना
ऽऽवश्यं स्वरूपमहमद्य नरस्य लप्स्ये ' ।। २३० ।। श्रीप्रेमलाऽपि कृकवाकुतनुं पतिं स्वं,
दृष्ट्वैव तद्वशमगान्न परं स्मरन्ती ।
तौ दम्पती च्युतनिमेषदृशेक्षमाणा
वन्योऽन्यमापतुरनन्यसमं प्रमोदम् ।। २३१ ।। इति श्रीकस्तूरसूरिविरचिते श्रीचन्द्रचरित्रे पञ्चम सर्गः
समाप्तः
--
१. 'श्रीप्रेमलां नववधूमधिगम्य हर्षात् ।।' इति पाठा० ।। २. 'जीयान्ममापि खलु वीरमती विमाता' इति पाठा० ।। ३. 'वीतौ' इति पाठा० ।। ४. 'मां चेन्नटस्य' इति पाठा० ।।