________________
सर्गः
५
अथ नृपतनया सखीसमेता,
-
स्फुरणमवाप च वामलोचनस्य ।
अगद हो ! सखि ! वामचक्षुरद्य',
स्फुरति भवेत् किमु सङ्गमः प्रियस्य ? ।। २१६ ।।
अवसरति स काल एत्य या मे,
कथितवती ननु देवतावधेः प्राक् ।
अयि सखि ! न हि मेऽधुनाऽपि कान्तः,
स्मरति विदेशगतः कुतो न जातु ।। २१७ ।।
भवति मयि वचोऽपि देवतायाः,
किमु विफलं मम भाग्यदोषतो हा ! । अतिदुरितमहं पुरा चरामि,
यदनुभवामि वियोगदुःखमेवम्' ।। २१८ ।।
इति नृपतिसुतावचो निशम्य,
प्रथमसखी निजगाद सामपूर्वम् ।
'अचिरसमयतः प्रियेण सत्यं',
२१३
प्रबलगुणे ! भविताऽस्ति सङ्गमस्ते ।। २१९ ।।
यदपि जनकवेश्म भोगपूर्णं,
तव सुभगे ! ऽस्ति तथाऽपि भर्तृगेहम्" ।
भवति बहुमतं वधूजनस्य,
विधिवशतस्तदवश्यमाप्स्यसि त्वम्' ।। २२० ॥
१. 'अयि मम नयनं प्रियालि ! वामं' इति पाठा० ।। २. 'यदि' इति पाठा० ।। ३. ' अगमदपि' इति पाठा० ।। ४. 'हि' इति पाठा० ।। ५. 'कदाऽपि चित्ते ।।' इति पाठा० ।। ६. 'हि ।' इति पाठा० ।। ७. 'सचिव -' इति पाठा० ।। ८. 'अचिरत एव ते प्रियस्य' इति पाठा० ।। ९. ' - मो हि ।।' इति पाठा० ।। १०. ' - वेश्म' इति पाठा०