________________
२१०
चन्द्रराजचरित्रम् 'अपि मम सकलस्य जीविकाऽतः,
प्रचलति, ते दुहितुर्वृथाऽत्र रागः । शरशतमितनर्तको मदीयः,
प्रभवति सप्तसहस्रमस्य सैन्यम् ।। २०० ।। यदवधि मम जीवनं, न तावत्,
कुटिलयितुं प्रभवेन्न कोऽपि लोम ।' इति वचनमसौ निशम्य तस्मा
अगददमुं 'तनया न मे विहन्यात् ।। २०१ ॥ नटवर ! यदि ते न प्रत्ययः स्यात्,
तनयममुं प्रगहाण तर्हि मेऽत्र। इति सचिवगिरा नटेन दत्तं,
खगमवलोक्य मुदं बभार बाला ।। २०२ ॥ 'अयि खगवर ! दोषमन्तरेण,
कथमसि मे प्रबलोऽहितस्त्वमद्य । बहिरसि ननु भव्यरूप एवं
भवति, कथं वचनं च कालकूटम् ।। २०३ ।। निवससि खग ! हैमपञ्जरे त्वं,
कलयसि सौख्यमनेकधाऽत एव । पतिविरहजवेदनां न जानन्,
प्रहरसि मां च कठोरवाक्कुठारैः' । २०४ ॥ इति सचिवसुतावचो निशम्य,
स्मृतनिजदुःस्थिकः स कुक्कुटोऽपि । १. '-दमुं न हनिष्यति प्रमादात् ।।' इति पाठा० ।। २. 'विज्ञ !' इति पाठा० ।। ३. 'हि ते' इति पाठा० ।। ४. 'वेत्सि' इति पाठा० ।। ५. 'तेन' इति पाठा० ।। ६. 'विरहजदु:खमवाप्य कुक्कुटोऽपि ।' इति पाठा० ।।