________________
सर्गः - ५
२११ घनसमय इवाऽम्बु वारिदोऽश्रु,
नयनत उद्गमयाञ्चकार सद्यः ।। २०५ ॥ अथ खगवरमाशु हस्तपद्मे,
सचिवसुता विनिधाय शान्तिमस्य । अनयत हृदि पङ्कजे निधाय,
मृदुवचनैरवदत् 'कथं त्वमीहक् ?' ।। २०६ ॥ अवददथ 'खगोऽस्मि चन्द्रभूपो,
मम जननी कृकवाकुमादधान्माम् । अतिविमलगुणा गुणावली मे,
... दयिततमाऽस्ति यतो वियोग एवम् ।। २०७ ।। तव पतिरचिराद् धनं प्रलभ्य,
प्रबलगुणे ! समुपागमिष्यति त्वाम् । मम तु निरवधिः प्ररूढवेगः,
प्रहरति हाऽत्र गुणावलीवियोगः' ।। २०८ ॥ खगवचनमसौ निशम्य बाला,
_ 'प्रभवसि मे समदुःखतो हि बन्धुः । कुरु न हि हृदये शुचं, तवाऽपि,
झटिति मिलिष्यति सर्वमेव बन्धो ! ।।२०९ ।। अयि यदि तव मानुषं शरीरं,
___ सुभग ! भवेन्मम सन्निधाववश्यम् । निजनिरुपमदर्शनं प्रदद्या',
इति विनयात् तमुवाच मन्त्रिपुत्री ।। २१० ॥
१. 'चेतनां हि' इति पाठा० ।।