________________
सर्गः
-
५
तुरगवरमथाधिरुह्य सद्यो,
जिगमिषुरेष चचाल देशमिष्टम् ।। १९४ ।
बहु गमननिरोधमाततान,
कथमपि न स तद्वचांसि मेने,
निजदयितस्य तदा च मन्त्रिपुत्री ।
ज्वलिततनौ हि सुखासिका न भाति ।। १९५ ।।
सचिववरसुता वियोगवह्नि
प्रबलशिखाकलिता जगाद दुःखात् ।
'जनक ! मम वियोगकारकं तं,
वितर दयां प्रविधाय कुक्कुटं त्वम् ' ' ।। १९६ ।।
अयि नटसविधेऽस्ति कुक्कुटोऽसौ,
स च न हि दास्यति याचितोऽपि पुत्रि ! । अतिथिरिव समान्य इत्यतो मे,
प्रसरति तत्र बलं न जातु मुग्धे ! ।। १९७ ।।
यदि न हि कृकवाकुमानयेथाः,
सपदि, तदा निजजीवितं विजह्याम्' ।
हठत इति निशम्य तत्प्रतिज्ञां,
२०९
नटवरमाह्वयति स्म स प्रधानः ।। १९८ ।
चटुपटुवचनैः प्रसाद्य दक्षः,
सचिववरोऽर्थयते स्म ताम्रचूडम् ।
अनभिमतवचो निधाय कर्णे,
नटवृषभोऽपि जगाद सान्त्वनायुक् ।। ९९९ ।।
१. 'हि' इति पाठा० ।। २. ' सचिव गिरमिमां' इति पाठा० 11