________________
२०८
निखिलमपि बहिश्चकार विज्ञो',
नगरत एष च कुक्कुटं तदानीम् ।। १८९ ।
प्रतिदिवसमसौ ददाति कर्णं,
चरणहतेर्न रुतं शृणोति जातु ।
अनवरतमियं जहौ न धीरा,
चन्द्रराजचरित्रम्
क्वचिदपि नैजपतिं च साऽपि लीला ।। १९० ।।
रसपरिमितमासयापनायां,
नटवृषभो नृपसन्निधिं प्रपेदे ।
अधिसभमवनीपतिं स्वनाट्यै
र्झटिति मुदाञ्चितमाचकार विज्ञः ।। ९९९ ।।
अवददथ नृपो 'व्रजाऽधुना त्व
मुषसि नटाधिप ! दर्शय स्वनाट्यम्' । शिवकुमरनटो जगाम वासं,
सचिवजनः समुपेत्य तं जगाद ।। १९२ ।।
'अयि तव कृकवाकुरत्र वाचं,
वदति यथा न, तथा विधत्स्व विज्ञ !' । अकथयदखिलं च वृत्तमस्मै,
भवति च दोष इतस्त्वदीयमूर्ध्नि ।। १९३ ।।
उषसि मधुरमाचुकूज पक्षी,
तदनु निशम्य वचस्तदीयमाशु |
१. 'लोकं' इति, 'सोऽथ' इति च इति पाठा० ।। २. 'विशेषात्' इति पाठा० ।। ३. ‘प्रतिदिन-' इति पाठा० ।। ४. 'न हि च शृणोति रुतं हि कुक्कुटस्य ।' इति पाठा० ।। ५. 'मुदा हितमाचकार' इति पाठा० ||