________________
सर्गः ५
तदनु मृदुवचोभिरेतमूचे,
सचिवसुता दयितं निजं च लीला ।
प्रतिवचन मये ! ददस्व नाथ !,
क्षणमपि सम्मुखदर्शनं प्रदेहि ।। १८४ ।।
भवति यदुपरि प्रभोः कृपादृङ्
निजभवने स सदैव लालसीति ।
कथमिह सकलं जनं विहाय,
दयित ! गमिष्यसि दूरदेशमाशु ?' ।। १८५ ।।
इति न च वचनं स मन्यते स्म,
प्रबलमपि प्रसभं ह्यमात्यपुत्र्याः ।
उषसि सचिव एत्य दैवविज्ञं,
सपदि समानयदस्य सन्निधौ तत् ।। १८६ ।।
‘वद गणक ! कदाऽस्य साधु गन्तुं,
भवति विदेशमहो मुहूर्तमाशु ?' |
इति सचिववचो निशम्य चक्रं,
२०७
प्रणिगदति स्म स दैवविद् विचार्य ।। १८७ ।।
'चरमनिशि' यदाऽत्र ताम्रशीर्षो,
वदति तदा सुमुहूर्तमस्य गन्तुम् ।
भवति नहि मुहूर्तमीदृगन्यत्,
पुनरपि धीसख ! वर्तमानवर्षे' ।। १८८ ।
इति गणकवचो निशम्य हर्षात्,
सचिववरो गणकाय वस्वयच्छत् ।
१. 'हि' इति पाठा० ।। २. 'कथमपि इति पाठा० ।। ३. 'मन्दिरे हि ।' इति पाठा० ।। ४. 'प्रणिनदति' इति पाठा० ।। ५. ' भवति' इति पाठा० ।।