________________
२०६
चन्द्रराजचरित्रम् भवति क इह मन्युहेतुरास्ते,
तव हृदि किं खलु कष्टमालपेति । अपि मम पुरतः, क्षणेन तस्य,
__ प्रतिविदधामि सुपुत्र ! तन्निशम्य' ॥ १७९ ।। इति जनकवचो निशम्य चाऽऽख्यद्,
'वितर निदेशमहो विदेशमेतुम् । मम पितरि'ति वाचमानिशम्य,
प्रतिवचनं कथयाञ्चकार तस्मै ॥ १८० ॥ 'तव युवतिरियं वधूः प्रकामं,
धननिचयं शिशुरेव ते वयश्च । बहुविपदां पदमस्ति च प्रदेशः२,
कथमिह गन्तुमहो प्रवर्तसे त्वम् ?३' ।। १८१ ।। अवददथ स भिक्षुकस्य वाक्यं,
जनकपुरः, प्रणिशम्य सोऽप्युवाच । 'अपि कुरु नहि साहसं च भिक्षो
वचनत एव विनाऽपि कारणं त्वम् ॥ १८२ ।। इति बहुविधमस्य सर्वलोको
ऽकृत परिबोधमसौ परं न मेने । अभवदथ निशा सदुःखचित्तो
ऽधिशयनमाप सुषुप्सुराशु विज्ञः ।। १८३ ॥
१. 'प्रतिविदधामि विनिर्णयं निशम्य ।।' इति पाठा० ।। २. 'बहुविपदां पदं [गृहं] विदेशं' इति पाठा० ।। ३. '-महो करोषि चेतः? ।।' इति पाठा० ।। ४. 'हि ।।' इति पाठा० ।।