________________
सर्गः ५
-
'कुमर ! कुरु तथा यथा न शीघ्रं,
क्षयमुपयाति युवत्वमिद्धसम्पत् ।। १७३ ॥
भवति विनयिनः स्थिरा समृद्धि -
र्वपुरपि भोग्यसहं चिराय चारु ।
अहमथ यदि भिक्षुकोऽपि नूनं,
नृप इव विज्ञ ! सुखी सदैव वर्ते ।। १७४ ॥
निजभुजबलतो विधाय भिक्षां,
निजवपुषः परिपोषणं करोमि ।
तव तु जनकभाग्यलब्धसम्प
न्न खलु विभाति महामदं जहीहि ' ।। १७५ ।।
इति वचनमसौ निशम्य तस्य,
द्रुतमधिगम्य पपात पादमूले ।
'अयि परिषहतामनादरं मे,
भवति भवान् गुरुरेव साम्प्रतं मे' ।। १७६ ।।
इति बहुविधमस्य संप्रसाद
२०५
मकृत शुभोदयतः प्रलब्धबोधः ।
गतवति सुगुरौ विदेशमेतुं,
सपदि हृदि प्रविचारयाञ्चकार ।। १७७ ।।
अतिशयमभवद् हृदि व्यथाऽस्य,
प्रबलमतिर्धरिणीतलेऽस्वपत् सः ।
'ऽऽत्मज ! कथमत्र महीतले नु शेषे ? ।। १७८ ।।
तदनु जनक एत्य संजगादा
१. ' - न्नहि खलु भाति, महामदाय चाऽद्य ।।' इति पाठा० ।। २. ' - कुरुत प्रार्थनया प्रलब्धबोधः ।' इति पाठा० ।।