________________
सर्गः - ५
२०३ अवददथ रणस्य वाद्यमुग्रं,
___ गजतुरगादि बलं दधाव' योद्धम् । शिवकुमरनटोऽपि सैन्ययुक्तः,
परबलमाप रणाय सज्जशस्त्रः ।। १६३ ।। उभयबलमयुध्यत प्रकामं,
प्रबलभयङ्करमत्र दीप्रशस्त्रम् । क्षयमुपगतमेक्ष्य नैजसैन्यं,
रणशिरसः प्रणनाश सिंहलेशः ।। १६४ ॥ विजयमधिनिशम्य चन्द्रभूपः,
स्वचरणमूर्ध्वमथो विधाय सैन्यम् । निजनिरुपमसौहृदं प्रदर्श्य,
प्रबलतरं परितश्नुकूज रम्यम् ।। १६५ ।। शिवकुमरनटस्ततश्चचाल,
प्रतिदिनमस्य खगस्य तोषकारी । कतिपयदिवसैरनेकसम्प
ज्जुषमगमत् किल पोतनं पुरं सः ।। १६६ ॥ प्रबलरिपुवने दवाग्निकल्पः,
प्रतिवसति स्म नृपः प्रतापभानुः । अपर इव महेन्द्र एष राज्य
मवति नृपो जयसिंह इत्यभिख्यः ॥ १६७ ॥ मतिगुणपरिशोभितो नृपस्य,
सचिवसुबुद्धिरभूच्च मञ्जुला(षा? ख्या ।
१. 'ननर्त' इति पाठा० ।। २. 'क्षयमगमदथो बलं नृपस्य' इति पाठा० ।।