________________
२०२
भवति च सुभगे ! नटस्य वृत्ति
रिह विहगे, स कथं प्रदास्यतीत्थम्' ।
नहि तव पुरतो मदीययाच्ञा,
सफला कस्यचिदेव वा न युक्ता' ।। १५८ ।।
इति बहुविधबोधिता ऽपि राज्ञी,
नहि बुबुधे कृकवाकुलुब्धचित्ता ।
सचिवमथ मुमोच तन्निमित्तं',
स नटवरं समुपेत्य संययाचे ।। १५९ ।।
रसदृशहेतुरलौकिकप्रभावः ।
प्रियतरमेनमवैति मन्त्रिवर्य' ! ।। १६० ।।
'अयि ! मम कृकवाकुरेष वृत्ते
अपि मम तनया स्वजीवतोऽपि
चन्द्रराजचरित्रम्
यदि नृपतिरिदं ददीत राज्यं,
तदपि न कुक्कुटमाप्नुयात् कदापि ।
व्रज वद भुवनाधिपाय सर्वं,
मृगयतु कञ्चिदसौ परं यदिष्टम् ' ' ।। १६१ ।।
इति वचनमसौ निशम्य राज्ञे
ऽकथयत सर्वमुदन्तमेत्य मन्त्री ।
तदनु नरपतेः समं प्रकोपैः,
सकलबलं समुपाजगाम शीघ्रम् ।। १६२ ।।
१. ' - तीति' इति पाठा० ।। २. 'सुफलवती प्रभवेद्धि कस्यचिद्धि ? ।।' इति पाठा० ।। ३. 'तत्प्रलब्ध्यै' इति पाठा० ।। ४. 'अयि मम कृकवाकुरेष जीवः, कथमथ जीवनमर्पयामि राज्ञे । हृदयदयितिका यथैव पत्नी, भवति तथैव ममाऽपि कुक्कुटोऽयम् ।।' इति पाठा० ।। ५. 'न खलु कथञ्चिदहं खगं प्रदास्ये' इति पाठा० ।।