________________
सर्गः - ५
२०१ अनवरतमनन्यचित्ततोऽमुं,
__परिचरति स्म च सनटेशपुत्री' ॥ १५२ ॥ नरपतिरपि चन्द्रराजवृत्तं,
सकलविदेशभवो निशम्य शीघ्रम् । बहुविधमुपहारमस्य चाऽग्रे,
प्रणतिपुरस्सरमादधात् सुभक्त्या ।। १५३ ।। शिवकुमरनटोऽथ सिंहलस्य,
धरणिपतेः समितिं प्रसन्नचित्तः । कतिपयदिवसैः समेत्य नृत्यं,
बहुविधमाचरति स्म जीविकायै ।। १५४ ।। । शिवकुमरनटस्य कुक्कुटं तं,
समधिविलोक्य नृपं जगाद देवी । 'बहुविधधनमादरेण दत्त्वा,
नृवर ! गृहाण खगं सकाशतोऽस्य ।। १५५ ।। भवति जलमृते यथैव मीनो,
मम हृदयं च तथैव तं विना यत् । क्षणमपि लभते सुखं न तावत्,
प्रतिलभतां कृकवाकुमेतमस्मात्' ।। १५६ ।। इति वचनमसौ निशम्य तस्या,
नृपतिरुवाच निजां प्रियां सतोषम् । 'अयि कथमयमर्पयेद् विहङ्ग,
किमु च खगे तव सौहृदं कृशाङ्गि ! ।। १५७ ।। १. 'नटधिराजपुत्री' इति पाठा० ।। २. -भवं' इति पाठा० ।। ३. 'हि' इति पाठा० ।।