________________
२००
चन्द्रराजचरित्रम् मम दयितवरः परेऽपि देशे,
कुशलमुपैतु निजेष्टदेवतुष्टेः' । इति बहुविधशोकपीडिता सा,
हृदि विदधौ निजभर्तुरेव चिन्ताम् ।। १४८ ।। अनिशमियमथो चचार धर्म,
सुखपरिणामसमागमाय देवी । विपुलबलमितो दिदेश राज्ञा,
सह गमनाय तदङ्गरक्षणे द्राक् ॥ १४९ ।। बलमथ समुपेत्य तनिदेशं,
द्रुततरमैत्य जगौ खगं महीपम् । 'नृपवर ! तव सन्निधौ सदैवा
हमपि वसामि सुखेन विद्धि सत्यम् ॥ १५० ।। इति बलवचनं निशम्य राजा,
किमपि जगाद विहङ्गजातियोग्यम् । अनुमतिमिव संप्रलभ्य सैन्यं,
तमनुससार मुदा नटेन सार्धम् ॥ १५१ ।। प्रतिदिनमुपलभ्य चाऽन्यतस्तद्,
धनमखिलं नृपतेः पुरो डुढौके । १. 'मम पतिरपरेऽपि देशमध्ये, हिमशिखरीव चिरं च जीवताद्धि ।' इति पाठा० ।। २. 'सकलबलमथाह्वयय्य सख्या, सह गमनं समुपादिदेश ('तमुपादिदेश' इति पाठा०) तर्हि (चेत्थम्-पाठा०)' इति पाठा० ।। ३. 'सकलमथ निशम्य तद्वचो हि, द्रुततरमाव्रजदस्य सन्निधिं च ।' इति पाठा० ।। ४. 'तेंऽह्रिमूले ।।' इति पाठा० ।। ५. 'तेऽपि' इति पाठा० ।। ६. 'शरणमगान्नृपतेनटेन सार्धम् ।।' इति पाठा० ।१। ७. '-भ्यतेऽन्यभूपाद्' इति पाठा० ।।