________________
सर्गः - ५ तदनु सचिव एत्य धैर्यमस्या,
व्यदधदसौ' बहुयुक्तियुक्तवाक्यैः ।। १४३ ॥ कथमपि परिबोध्य मन्दिरे तां,
सचिववरः समुपानयत् तदैव । 'अयि तव भवनं खगेन शून्यं,
न खलु विराजति प्राग्वदि'त्युवाच ॥ १४४ ।। सपदि तदनुमोदनं चकाराऽ
तिशयविषण्णमुखी गुणावली सा । विरहविहितसंचरा तदानीं,
बहु विललाप सबाष्पनेत्रपद्मा ॥ १४५ ।। 'प्रिय ! मम हृदयं कुतो न भिन्नं,
गतवति जीवनदायिनि त्वयीदम् । हतविधिरहमस्मि निश्चितं यद,
विहगवरोऽपि विहाय मां गतोऽभूत् ॥ १४६ ।। क्व मम निरुपमं सुखं क्व राज्यं ?,
क्व च नु मम प्रियकस्य कुक्कुटत्वम् ? । क्व च पुनरपि तद्वियोगदुःखं ?,
सममिति प्राक्तनकर्मणः फलं मे ॥ १४७ ॥
१. 'अचरदसौ' इति पाठा० ।। २. 'प्राग्वदद्य नूनम् ।।' इति पाठा० ।। ३. 'अवसरमधिगम्य साऽपि दुःखाद्, बहु रुदती समुवाच हा तथैव । इति सचिववरं निगद्य देवी, बहु विललाप वियोगपीडिता सा ।।' इति पाठा० ।। ४. 'अयि मम हृदयं प्रियेऽस्थिरं हि, कथमथ जीवनमद्य धारितं स्यात् ?।' इति पाठा० ।।