________________
१९८
चन्द्रराजचरित्रम् इति सचिववचो निशम्य धैर्य, .
मनसि विधाय सुवर्णपात्रमेकम् । निजपतिपरिभोजनाय देवी,
बहुविधभोज्ययुतं ददौ च शीघ्रम् ॥ १३८ । सुमतिसचिव आजगाम सर्वं,
निजनृपताम्रशिखस्य वृत्तमस्यै । विजनमधिविधाय संजगाद,
प्रथितमतिर्नटराजपुत्रिकायै ॥ १३९ ॥ तदनु नृपतिमेव संप्रणम्य,
प्रति निजधाम जगाम मन्त्रिमौलिः । शिवकुमरनटः प्रयाणवाद्यं,
सपदि समाहतवांश्च धीरघोषम् ।। १४० ।। नटवरगमनस्य वाद्यघोषं,
सपदि निशम्य गुणावली स्वहर्म्यम् । अथ च समधिरुह्य नाट्यकाः ,
शिरसि निषण्णपतिं समालुलोके ।। १४१ ।। गतवति निजलोचनात् सुदूरे,
निजपतिपञ्जरमीक्षितुं न सेहे । करुणतररवैरथो रुदित्वा,
त्वरितमसौ गतचेतना बभूव ॥ १४२ ।। मृदु पवनमथो विधाय शीतं,
जलमुपचर्य निनाय चेतनां ताम् ।
१. 'समधि-' इति पाठा० ।। २. 'मुमोच' इति पाठा० ।। ३. 'मन्त्री' इति पाठा० ।। ४. 'तदनु समाहतवांञ्जगाम तस्मात् ।।' इति पाठा० ।। ५. '-रियं' इति पाठा० ।।