________________
१९८
इति सचिववचो निशम्य धैर्यं,
मनसि' विधाय सुवर्णपात्रमेकम् ।
निजपतिपरिभोजनाय देवी,
बहुविधभोज्ययुतं ददौ च शीघ्रम् ।। १३८ ।।
सुमतिसचिव आजगाम सर्वं,
विजनमधिविधाय संजगाद,
निजनृपताम्रशिखस्य वृत्तमस्यै ।
प्रथितमतिर्नटराजपुत्रिकायै ।। १३९ ।।
तदनु नृपतिमेव संप्रणम्य,
प्रति निजधाम जगाम मन्त्रिमौलि ः ३ ।
शिवकुमरनटः प्रयाणवाद्यं,
चन्द्रराजचरित्रम्
सपदि समाहतवांश्च धीरघोषम् ।। १४० ।।
नटवरगमनस्य वाद्यघोषं,
सपदि निशम्य गुणावली स्वहर्म्यम् ।
अथ च समधिरुह्य नाट्यकर्त्याः,
शिरसि निषण्णपतिं समालुलोके ।। १४१ ।
निजपतिपञ्जरमीक्षितुं न सेहे ।
त्वरितमसौ गतचेतना बभूव ।। १४२ ।।
गतवति निजलोचनात् सुदूरे,
करुणतररवैरथो रुदित्वा,
मृदु पवनमथो विधाय शीतं,
जलमुपचर्य निनाय चेतनां ताम् ।
१. 'समधि-' इति पाठा० ।। २. 'मुमोच ' इति पाठा० ।। ३. 'मन्त्री' इति पाठा० ।। ४. 'तदनु समाहतवांञ्जगाम तस्मात् ।।' इति पाठा० ।। ५. ' - रियं' इति पाठा० ।।