________________
१९६
चन्द्रराजचरित्रम् अयि नहि परदेशसंश्रितस्य,
स्मरणपथात् परियास्यसि प्रमुग्धे ! । अचिरतरत एव सङ्गतः स्यां,
__मम वचनं परिमन्यतां प्रिये!ऽदः' ॥ १२७ ॥ अथ सचिववराय पञ्जरं त
ददददसौ नृपवल्लभा तदानीम् । सुमतिरपि ददौ च वीरमत्यै,
नटवृषभाय समार्पयच्च राज्ञी ।। १२८ ।। निजशिरसि निधाय पञ्जरं त-,
न्मुदितमनाः प्रययौ नटः स्ववासम् । कृतकरयुगसम्पुटाऽतिनमा,
तमथ खगं शिवमालिका जगाद ।। १२९ ।। 'अयि नृपतिलक ! प्रभुं विनेयं,
नटसमितिः प्रबभूव पूर्वकाले । अथ च विमलभाग्ययोगतस्त्वां,
नृपमधिगम्य सभर्तृकाऽद्य जाता ।। १३० ॥ प्रथममथ तव प्रभो ! सुकीर्ति,
सरसतया परिकीर्त्य सर्वकाले । नृपतिमथ ततः स्वजीविकाय,
नृपवर ! कीर्तयिताऽस्मि नाऽन्यथैतत् ।। १३१ ।। न हि किमपि कुरुष्व शोकमत्र,
प्रभुवर ! तेऽस्मि सदैव दासिकाऽहम् ।' १. 'राजानं विना इयं नटसमितिः' इति बोद्धव्यम् ।। २. '-नान्यथा हि ।।' इति
पाठा० ।।