________________
सर्गः - ५
१९५ इह बहुविधदुःखसंतप्तचित्तां,
प्रिय ! नहि मां स्मरणाध्वतो विजह्याः ।। १२२ ॥ प्रिय ! विहितमनेकशोऽपराधं,
क्षमय यतोऽहमलं विबोधशून्या' । भवति नहि महानुभावचित्तः,
क्वचिदपि निर्दय इत्यतोऽर्थये त्वाम् ।। १२३ ॥ कुरु मम पुरतः स्वनेत्रयुग्मं,
चिरमिह दुर्लभदर्शनो भवेर्यत् । व्रजसि नगरतोऽप्यतोऽतिदूर,
मम हृदयान कदापि नाथ ! सत्यम्' ।। १२४ ।। इति बहुविधमाप्तशोकवेगा,
भृशमरुदत् शिशुवच्च' चन्द्रजाया । स्वनखशिखरतो विलिख्य तस्यै,
न्यगददसौ कृकवाकुराशु विज्ञः ।। १२५ ॥ 'अयि मृगशिशुलोचने ! वियोगे,
नहि कुरु दुःखमहं तवाऽस्मि बाले ! । सविधममलभावपूर्णचित्ते !,
पुनरपि लब्धनकाय आगतः स्याम् ।। १२६ ॥
१. 'इति ('इह' इति पाठा०) बहुविधदुःखसंप्रमग्नां, प्रिय ! नहि मां स्मरणेन संत्यज त्वम् ।।' इति पाठा० ।। २. 'प्रिय ! मम सहतां सहस्रशोऽमुं, कृतमपराधमहो मयाऽतिबाढम् ।' इति पाठा० ।। ३. 'इत्यहं प्रवेद्मि' इति पाठा० ।। ४. 'पुनरपि दुर्लभदर्शनं भवेत् ते । भवसि पथिक एव नाथ! दूरं, जिगमिषुरस्ति भवान् ब्रुवे किमत्र ।।' इति पाठा० ।। ५. 'किल हाऽत्र' इति पाठा० ।।