________________
१९४
चन्द्रराजचरित्रम् नियतमियमनेकभेददुःखं
वितरितुमेव प्रपञ्चमादधाति' ॥११७ ॥ 'सचिववर ! विलोकयाऽधुनाऽस्या
मतिपरिवर्तनमस्ति किं जरत्याः । मम पतिमकरोत् खगं, पुनस्तं,
नटवृषभाय ददाति यत् कठोरा ।। ११८ ।। भवति हृदि जनस्य यस्य हार्द,
भवति हि दुःखममुष्य, नेतरस्य । अपि पतिमवलोक्य सन्निधिस्थं,
कथमपि जीवनधारणं करोमि' ॥ ११९ ।। अथ सचिवगिरा गुणावली सा,
बहुविधकौशलसंयुजाऽनुकूला । विहगवरसमर्पणे नटाया
ऽलमनुमतिं व्यदधाद् विचारदक्षा ।। १२० ।। प्रियवरमवगृह्य साऽतिशोका
दविरलनेत्रजलैः सिषेच कायम् । अपि मम हृदयेश ! मां सशोकां',
कथमवमुच्य दिगन्तमाशु यासि ? ॥ १२१ ।। 'मम हृदयतले सदा निषण्णः,
सकलमहो प्रणयं प्रवेत्सि मे त्वम् । १. 'दलयितुमेव विमुञ्चतेऽस्य राज्ञी ।।' इति पाठा० ।। २. भवति च हृदये हि यस्य हाद' इति पाठा० ।। ३. 'स्नेहः' इति टि० ।। ४. 'अथ सचिववरो गुणावली तां, बहुविधकोमलवाक्यतः प्रसाद्य ।' इति पाठा० ।। ५. 'विपन्नां' इति पाठा० ।।