________________
सर्गः - ५ इति नटवचनं निशम्य राज्ञी,
खगवरदानमुरीचकार तस्मै । सचिवमथ गुणावलीप्रबोधा
र्थमपि तदा व्यसृजद् द्रुतं सभास्थम् ॥११२ ॥ सुमतिसचिव एत्य तां जगाद,
प्रथममसौ वचनं स' वीरमत्याः । तदनु निजमतं विबोधहेतो
नृपदयितां कथयाञ्चकार विज्ञः ॥११३ ॥ 'अयि विशदमते ! नितान्तकष्ट,
तव सविधे भविताऽस्य कुक्कुटस्य । यदि नटवृषभाय दास्यसीमं,
निरवधि मङ्गलमस्य निश्चितं स्यात् ॥ ११४ ॥ अतिसरलमतिर्नटस्य पुत्री,
निजतनुतोऽपि विशेषतः प्रमोदात् । खगवरपरिपालनं विधाता,
वितर ततः कृकवाकुमाप्तबुद्धया' ॥ ११५ ॥ इति सचिववचो निशम्य मूर्छा
मगमदलं हृदि शल्यवेधिते । पुनरपि परिलभ्य चेतनां सा,
मनसि विचारयति स्म शोकखिन्ना ।। ११६ ॥ 'अयि कथमपराधमन्तरेण
प्रियकृकवाकुमहों ददाति तस्मै । १. 'सचिवमथ गुणावली प्रबोद्धं, सपदि तदा परिमोचयाञ्चकार ।।' इति पाठा० ।। २. 'हि' इति पाठा० ।। ३. 'प्रकाशयन् स' इति पाठा० ।। ४. 'प्रियनिजजीवनतो ऽपि संविशेषात् ।' इति पाठा० ।। ५. '-मगमदसौ हि गुणावली तदानीम्।' इति पाठा० ।। ६. '-मसौ' इति पाठा० ।।