________________
१९२
चन्द्रराजचरित्रम्
न्यगददिति निशम्य 'किं त्वयाऽयं,
मम पुरतः परियाच्यते खगोऽल्पः । । किमु वितरणतोऽस्य सम्भवेद् वा',
सुयश ! इति प्रविचारय स्वचित्ते ॥ १०७ ॥ वितरति सुजनो यत: सुवर्णं,
मणिमथ हस्तिनमश्वमच्छभूषाम् । श्रुतमपि न हि, कोऽपि तुष्टचेताः,
खगमददानटराज ! ताम्रचूडम् ॥ १०८ ॥ मम तनयवधूः सदैव चाऽमुं,
स्पृहयति कुक्कुटमिद्धभावपूर्णा । तव यदि वितरामि साऽतिशोका
कुलहृदयाऽत्र' भविष्यति प्रमुग्धा ।। १०९ ॥ अथ च वितरणे त्रपा ममाऽपि,
__ भवति हि सम्प्रति नर्तकाधिराज !' । शिवकुमरनटो जगाद 'तेऽत्र',
भवति किमित्थमहो वितर्क एषः ॥ ११० ॥ भवति तव बहुप्रियोऽयमस्मा
नहि मम दातुमना असि प्रकामम् । अहमिति परिवेद्मि, किं वृथा त्वं,
कथयसि 'मार्गयते ददामि सर्वम्' ?' ॥१११ ॥
१. 'मम च खगविहापितेन किं स्यात्' इति पाठा० ।। अत्र 'खगविहापितेन' इत्यत्र 'खगदानेन' इति टि० ।। २. 'प्रविज्ञ !' इति पाठा० ।। ३. 'परितोषतः' इति पाठा० ।। ४. 'भूमिपृष्ठे' इति पाठा० ।। ५. 'हि' इति पाठा० ।। ६. 'किं ते' इति पाठा० ।।