________________
सर्गः - ५ इति वचनमसौ निशम्य बाला,
यवफलतः समवातरच्च नीचैः । पितरमथ रहः प्रणीय तस्मा
अवददसौ कृकवाकुजल्पितं तत् ॥ १०२ ।। निजदुहितुरिदं वचो निशम्य,
प्रबलमुदं समवाप्य तां प्रशंसन् । शिवकुमरनटो यशोऽप्यगायन्
मधुरवचोभिरपूर्वमेष राज्या: ।। १०३ ॥ अथ नटगुणदर्शनात् प्रहृष्टा,
प्रियतरवाचमुवाच राजमाता' । 'नटवर ! परिमार्गय स्वमिष्टं,
गुणिजनमुख्यतमाय तेऽस्मि दित्सुः३' ॥ १०४ ॥ इति वचनमसौ निशम्य राज्याः,
कृतकरसम्पुट आजगाद तस्यै । 'मयि यदि तव राज्ञि ! संप्रसादो,
वितर तदा कृकवाकुमेतमेकम् ।। १०५ ।। अयि मम तनया पटुत्वलब्ध्यै,
श्रयति सदा कृकवाकुपद्धतिं यत् । नहि मम सविधेऽस्त्यसावमूहक्,
तव पुरतः परियाच्यते मयाऽत:' ॥ १०६ ॥
१. 'मधुरवचोभिरसौ हि वीरमत्याः ।।' इति पाठा० ।। २. 'नटवृषभं पुरतः स्वमानिनाय ।' इति पाठा० ।। ३. 'तव हृदयङ्गममद्य सम्प्रदास्ये' इति पाठा० ।। ४. '-माशु' इति पाठा०।। ५. 'मुदा' इति पाठा० ।। ६. 'सा' इति पाठा० ।। ७. '-ऽस्ति कुक्कुटोऽन्यः' इति पाठा० ।। ८. 'मयेति' इति पाठा० ।।, इतोऽग्रे'भवति यदि तवाऽपि तत्र मोहः, परमथ पालय कुक्कुट प्रकामम् । मम न हि धनधान्यसंजिघृक्षा, भवति परं चरणायुधस्य वाञ्छा ।।' इति पाठा० ।।