________________
१९०
चन्द्रराजचरित्रम् अत इह हृदयस्य गूढभावं,
तव पुरतः प्रकटीकरोमि बाले ! । सदयहृदयता त्वया विधेया,
मयि मतिशालिनि ! दुर्दशामुपेते' ।। ९८ ।। यदि नवकलया प्रसूः प्रसन्ना,
किमपि च दित्सुरसौ भवेत् तवेष्टम् । उपकृतिनिपुणे ! विहाय वित्तं,
त्वमथ निजां मयि लालसां प्रकुर्या: ।। ९९ ॥ इयमुपकृतिरास्वदेहपातात्,
__तव न मदीयहृदो निरेष्यतीह । परकृतनिजकार्यसिद्धिरद्धा,
कृततदपह्नतिरेव सज्जनः कः ? ॥ १०० ।। भवति यदि तवेप्सितं धनं तद्,
सहकारमवाप्य भावि पूर्णम् । अवसरमधिगत्य वेदयिष्ये,
सकलमिदं सुभगे ! स्वकीयवृत्तम्' ।। १०१ ।।
१. 'इति निज-' इति पाठा० ।। २. 'त्वयि यदि जननी भवेत् प्रसन्ना, वृणु निजवाञ्छितममित्यसौ वदेच्चेत् ।।' इति पाठा० ।। ३. 'यवफलशिखराद् यदाऽवतीर्णा, भवसि तदा स्वकला प्रदर्श्य विज्ञे ! । तव पदकमलं पतामि तर्हि (बाले !-पाठा०) धनमवलोक्य न मोहमाविदध्याः॥' इति पाठा० ।। ४. 'वदति यदि किमीप्सितं तवेति, त्वमथ विमार्गय मां हि ताम्रशीर्षम् (-चूडम्) । इयमुपकृतिरास्वदहेपातात्, तव न मदीयहृदो निरेष्यतीह ।।' इति पाठा० ।। तत्र 'निरेष्यति' इत्यत्र 'निर्गमिष्यति' इति टि० ।। ५. 'मम मिलनेन न दुर्लभं तवाऽस्ति ।' इति पाठा० ।। ६. 'अयि तव पुरतो निवेदयिष्ये' इति पाठा० ।।