________________
सर्गः ५
-
किमपि किमपि पञ्जरस्थ एष,
स्वहृदयमोदकरं करोत्यजस्त्रम्' ।। ९२ ।।
इति वचनमथो निशम्य संसत्',
त्वरिततरं प्रययौ तयोः समीपम् ।
बहुविधविनयं विधाय राज्ञ्याः,
खगवरमाशु विमोचयाञ्चकार ।। ९३ ।।
तदनु परिषदं समाजगामा
शिवकुमरनटो विलोक्य राज्ञीं,
'ऽनुपमनृपासनमाश्वलञ्चकार ।
भृशतरमोदमवाप शान्तचित्ताम् ।। ९४ ॥
अवसरमधिगम्य वीरमत्या,
गुणशतमभिनन्द्य सुप्रसन्नां,
मृदुवचनैरवशान्तयन् प्रकोपम् ।
व्यरचयदेव नटस्तदा स तज्ज्ञः ३ ।। ९५ ।
पुनरपि निजनाट्यमाततान,
प्रथम इवाऽधिरुरोह वंशकोटौ ।
१८९
शिवकुमरनटस्य पुत्रिका सा,
पुनरपि कुक्कुटसम्मुखं ननर्त ।। ९६ ।।
अवसरमथ कुक्कुटः स लब्ध्वा,
मृदुवचनैः शिवमलिकां जगाद ।
'अपि नटदुहितः ! प्रशस्यबोधे !,
खगवचनं परिवेत्सि तत्प्रजाने ! ।। ९७ ।।
१. 'सभा' इति टि० ।। २. 'प्रबलनृपासन -' इति पाठा० । । ३. 'च राज्ञीम्' इति पाठा० ।। ४. ' - सम्मुखी' इति पाठा० ।।