________________
१८८
चन्द्रराजचरित्रम् चरितमिति विलोक्य कुक्कुटस्य,
भृशतरमन्युवशेन राजमाता । सपदि करतले निधाय खड्ग
मतिरभसेन गवाक्षमाजगाम ।। ८७ ॥ अतिशयितरुषा च पञ्जरं तं,
निजकरतः परिगृह्य संजगाद । 'अयि ! खग ! नहि तेऽधुनाऽपि संज्ञा
ऽधमकुलपांसन ! निस्त्रपोऽसि नूनम् ।। ८८ ।। अयि मम पुरतो गतेऽह्नि चाऽद्य,
त्वमददथाः किमु दानमप्रदेयम् ? । शिवकुमरनटाय, न त्वमद्य,
प्रभवसि जीवितुमस्मदीयकोपात्' ।। ८९ ॥ इति निपुणममुं प्रभय कोशा
च्छितकरवालमसौ बहिश्चकार । तदनु सपदि हस्तामारुरोध,
प्रसभमुपेतभया गुणावली द्राक् ॥ ९० ।। 'जननि ! खगजनो विवेकशून्यो,
भवति, न ते परिशोभतेऽत्र कोपः । पिबति सति जलं स्वचञ्चुतोऽस्मिं
श्चषक अपेत्य पपात भूमिदेशे ।। ९१ ॥ भवति नहि खगस्य जातु कस्मै
चिदपि हि किञ्चिदपि प्रदातुमीहा । १. 'हि' इति पाठा० ।। २. 'अयि खग ! न हि तेऽत्रपा विनष्टाऽधमकुलपांसन ! निस्त्रपोऽधुनाऽपि ।।' इति पाठा० ।। ३. 'प्रसभमसौ हि गुणावली तदीयम् ।।' इति पाठा० ।। ४. '-श्चषक इति प्रपात' इति पाठा० ।।