________________
सर्गः
इति वितरति नैव दानमेषा,
परिषदपि प्रथमं न दातुमीशा ।
स्थितिमपनयते न यत् समाजो,
भवतु यथा न महीयसो लघुत्वम् ।। ८२ ।।
'भवति न लवणं विना सुभोज्य
मवनिरुहं न विना यथा लता हि ।
'मदजलगजमन्तरा न सेना,
लसति तथा परिसन्न चन्द्रशून्या" ।। ८३ ।।
इति शिवकुमरेण कुक्कुटोऽसौ,
विशदयशः परिकीर्तितं निशम्य ।
हृदि निजजननीभयं न कृत्वा,
नटवृषभाय बभूव दित्सुराशु' ।। ८४ ।।
सपदि बहुसुरत्नराशिजुष्टं,
झटिति नटवरः प्रगृह्य चैनद् ",
१८७
चषकमसावददादनर्घ्यमेकम् ।
बहुसुयशः प्रजगौ तदीयमेषः ।। ८५ ।।
वितरति हि यथाऽम्बु वारिवाहः,
परिषदपि प्रददौ तथैव हेम ।
अवसरमधिगम्य दानशौण्डः,
क्वचिदपि नैव निलीयते कदापि ।। ८६ ।।
१. 'इयमिति विदधाति किं प्रदाने, नगरजनाः जगदुः परस्परं हि ।।' इति पाठा० ।।
२. 'मदकलगज-' इति पाठा० ।। ३. 'चन्द्रभूपम्' इति पाठा० ।। ४. 'निजसुयश :' इति पाठा० ।। ५. ' दित्सुरेषः' इति पाठा० ।। ६. ' - पुष्टं' इति पाठा० ।। ७. 'चैनं' इति पाठा० ।।