________________
१८६
चन्द्रराजचरित्रम् शिवकुमरनटं समादिशत् तथैव,
'प्रकुरु कलाकुशल ! स्वनाट्यमाशु' ॥ ७६ ॥ अथ नटवर आततान नाट्यं,
पुनरपि वंशमरोपयत् सभायाम् । सकलजननमस्कृतिं च कृत्वा',
तदुपरि सा शिवमालिकाऽऽरुरोह ।। ७७ ॥ निजपतिमवगृह्य पञ्जरस्थं,
तदनु गवाक्षमगाद् गुणावली सा । नरपतिरपि सावधानचित्तो
ऽजनि नटराजकलेक्षणे तदानीम् ।। ७८ ॥ निरुपममवदर्शयन् स नाट्यं,
निजतनयासहितो नटाधिराजः । अवसरमधिगम्य दानलब्धे
रथ बहु कीर्तयति स्म चन्द्रभूपम् ॥ ७९ ।। 'त्रिभुवनतिलकः स चन्द्रभूपो,
भवति, यदीयगुणप्रकीर्तनेन । . त्रिभुवनमहितोऽपि देवराजो
ऽमरपरिषत्सु हि लोमहर्षयुक्तः ॥८० ।। इति निजतनयस्य कीर्तिगानं,
श्रवणपुटातिथितां गतं न सेहे । अजनि मुखविधू रुडब्दमन्दो
हृदयगतं हि लघु व्यनक्ति मन्दः२ ।। ८१ ।। १. 'विधाय' इति पाठा० ।। २. '-श्रवणपुटेन निपीय राजमाता । अजनि गृहतेर्विलोकनेन, चकितमना हि मलिम्लुचालिवत् सा ।।' इति पाठा० ।।