________________
सर्गः
-
५
निजनिरुपमसद्यशो निशम्य,
प्रबलमतिः खलु निह्नुतः कथं स्यात् ? ।
इति भवति तव प्रसादपात्रं,
कथमिह मन्युमुपैषि हर्षहेतौ ।। ७२ ।।
तव शिशव इह विभान्ति पौराः,
क्रुदुपशमस्तत एव तेषु योग्यः ' ।
इति बहुविधबोधनं च राज्ञ्याः,
क्रुदुदयमेव चकार पूर्वतोऽपि ।। ७३ ।
अतिरुषमवलोक्य वीरमत्या,
गुरुतरभीतिमुपेत्य भास्करः किम् ? | निजवपुरवगोपयन्ति वाऽब्धौ,
सपदि निपातमधादिवाऽपराद्रेः ।। ७४ ।।
२
नहि सुखमियमाप मञ्चकेऽपि,
प्रबलशुचा ननु जाग्रती निशायाम् ।
१८५
अपकृतिपरिचिन्तया परस्य,
स्वहृदयतोऽपि रुषेव याति शान्तिः ।। ७५ ।।
३
उषसि परिसमाप्य सा स्वकृत्यं,
सद उपगम्य च पौरलोकजुष्टाम् ।
१. 'नहि कुरु कोपमतः स्वपोतवृन्दे । इति बहु परिबोधिताऽपि राज्ञी, नहि बुबुधे निजमानहानितोऽसौ ।।' इति पाठा० ।। २. 'द्रुतमतिभीततया दिवाकरोऽपि । निजवपुरवगोपयन् महाब्धौ तमसि महीयसि निलीयते स्मेव ।।' इति पाठा० ।। ३. ' भवति न हि सुखाय शोकहेतौ, किमपि सतां हृदये प्रवर्धमाने ।।' इति पाठा०।। ४. ‘-लोकमाहूय ।' इति पाठा० ।।