________________
१८४
चन्द्रराजचरित्रम् बहुतरधनलाभतुष्टमेनं,
___ नटमवलोक्य बभूव वीरमत्याः । हृदि दहनशिखाप्रदाहखेदो
ह्यनभिमतं प्रमदाय किं कुतोऽपि' ? ॥६७ ॥ बहुविधमणिलाभतो नटोऽसौ,
प्रमुदितचित्ततया स्ववासमाप । व्रजति हि सकलो निजानुरूपा
ऽऽदरमधिगत्य चिरं कृतार्थभावम् ।। ६८ ॥ 'क इह धनवतां वरो मदने,
प्रथमत एव नटाय सम्प्रदाता । किमु मम स न वेत्ति मन्युवह्नि ?
यदिह हठाच्छलभायते समिद्धे' ॥ ६९ ॥ इति बहुविधमन्युमादधानां,
सुमतिरसान्त्वयदाशु राजसूं ताम् । भवति हि नृपतेः क्रुदग्निशान्तौ',
झटिति सुहृत्सचिवः सुमेघकल्प: ।। ७० ॥ 'जननि ! नहि वृथाऽऽचरेः प्रकोपं,
तव विमलं यश एव वर्द्धतेऽतः । भवति य इह सत्प्रतापशूरः,
प्रसरति जन्यविधौ पुरः स एव ।। ७१ ।। १. 'दृढतरमन्युमवाप तत्र राज्ञी ।।' इति पाठा० ।। २. 'भवति गुणिजनो गुणानुरूपा-ऽधिकफलमेत्य यदाशु हृष्टचित्ताः (-चेताः) ।।' इति पाठा० ।। ३. 'यो ददौ सः' इति पाठा० ।। ४. 'सुमतिरवोचत राजमातरं ताम् ।' इति पाठा० ।। ५. 'कुदग्निदाहे' इति पाठा० ।। ६. 'झटिति शमाय सुहृच्छशाङ्क-कल्पः।।' इति पाठा० ।। ७. 'सत्प्रतापशूरो-ऽवतरति' इति पाठा० ।।