________________
सर्गः - ५
१८३ इति मनसि विचिन्त्य वक्त्रचन्द्रं,
प्रथममसौ प्रविलोक्य नैजवध्वाः । तदनु निजयशःप्रगाणहर्षात्,
सरसमतिः कृकवाकुरप्यदित्सत् ॥ ६२ ।। 'सुरुचिरनिजपञ्जरस्य यतैः,
समकृषदाशु स चञ्चतः शलाकाम् । बहुतरमणिमण्डितं ततोऽध
चषकमपातयदस्य तोषकृत्यै ।। ६३ ।। शिवकुमरनटः सविस्मयं तत्,
प्रकटतया कृकवाकुतोषलब्धम् । चषकमनुपमं समीक्षतां द्राक्,
निजशयतो जगृहे तथा प्रहृष्टः ।। ६४ ॥ चषकमथ करे निधाय चन्द्र
क्षितिपतिकीर्तिमसौ जगौ वरेण्याम् । तदनु परिषदाशु वस्त्रभूषा
दिकमतिमूल्यमदाच्च दानमस्मै ।। ६५ ॥ मणिखचितविभूषणेन सजं,
शिवकुमरं प्रसमीक्ष्य तत्सुताऽपि । नहि निजपितरं खलु व्यजानाद्,
__ भवति हि वेषविभेदतो विमोहः ॥६६ ॥ १. 'लघुलघु' इति पाठा० ।। २. 'समवकृषत् स च चञ्चुतः शलाकाम् ।' इति पाठा० ।। ३. 'शिवकुमरनटो तथा सभाऽसौ' इति पाठा० ॥ ४. 'तं' इति पाठा० ।। ५. 'तत्प्रियाऽपि' इति पाठा० ।। ६. 'मम पतिरिति नो व्यजानाद्, दमरसमाकृतितां गतो यतोऽसौ ।।' इति पाठा० ।।