________________
१८२
चन्द्रराजचरित्रम् इति न वितरति स्म दानमस्मा,
अतिशयरोषवती हृदि स्वकीये । अनुनयवचनान्यपीह तस्याः,
हृदयतलं विविशुनटेश्वरस्य' ।। ५७ ।। परिषदपि न तां विना पुरस्ता
दददत दानमहो नटाय किञ्चित् । वितरति सलिलं यदैव मेघः,
सरिदपि कूलमुदञ्चतीह वेगात् ॥ ५८ ॥ शिवकुमरनटो जगौ तथैव,
प्रबलयशो ननु चन्द्रभूधवस्य । नहि खलु बुबुधे विरागहेतुं,
कथमपि विज्ञतमोऽपि वीरमत्याः ।। ५९ ॥ अथ मनसि विचारयाञ्चकार,
'क्षितिपतिराशु सुवर्णपञ्जरस्थः । मम विमलयशःप्रगाणतोऽस्मै,
नियतमियं वितरेन्न तुष्टिदानम् ॥ ६० ॥ यदि विकलमनोरथः सभायाः',
नटवृषभः प्रतियास्यति प्ररुष्टः । पुनरपि नहि मे यशःप्रगाणं,
__क्वचिदपि राजसभासु संविधाता ।। ६१ ॥
१. 'स्वपाणिपद्मन' इति पाठा० ।। २. 'कतिचिदनुजगाद वक्रवाक्या-न्यपि न हि रागलवोऽप्यजायताऽस्मिन् ।।' इति पाठा० ।। ३. 'भवति न हि विना सुवृष्टियोगात्, क्वचिदपि वेगवती नदी कथञ्चित् ।।' इति पाठा० ।। ४. 'नियमियं नहि दास्यते हि [-ऽपि] दानम् [किञ्चित्] ।।' इति पाठा० ।। ५. '-रथोऽयमस्माद्' इति पाठा० ।। ६. '-सभास्वयं विधाता ।।' इति पाठा० ।।