________________
सर्गः
पुनरपि परिवृत्य सा गुवाके',
५
स्थिरमनसा गरुडासनं ततान ।
अथ खपुरतले निधाय वाम
क्रममनु नृत्यमधाद् धरा स्थितेव' ।। ५२ ।
शिवकुमरनटो जगाद 'नीचै
रवतर, दृष्टमहो सुकौशलं ते ।
अवगतमभवत् पुरा न चेत्थं',
क्वचिदपि संसदि विस्मयावहं यत्" ।। ५३ ।।
पितृवचनमथो निशम्य साऽऽगाद्,
गगनतलात् सुरनिम्नगेव भूमौ ।
तदनु नटजनाः कुमारिकां तां,
नटवर उदगादपूर्वतालै
सविनयमवखिद्य वाञ्छति स्म,
मुदितहृदो लघु गाढमालिलिङ्गुः ।। ५४ ।।
धवलयशः किल चन्द्रभूमिपस्य ।
१८१
प्रशममसौ निजनर्तनस्य राज्ञ्याः ।। ५५ ।
निजतनययशो निशम्य राज्ञी,
हृदि परितापवती जगाद नैव ।
क्वचिदपि सहते द्विषः यशो नो,
कुटिलजनः परिवर्णितं परेण ।। ५६ ।।
१. 'पूगीफलोपरि' इति टि० ।। २. क्रममियमास्थित चक्रवद् भ्रमन्ती ।।' इति पाठा० ।। ३. 'तवेत्थं' इति पाठा० ।। ४. 'सकलकलासु परं न कौशलं हि ।।' इति पाठा० ।। ५. —–मसौ' इति पाठा० ।। ६. 'मृग्यते' इति पाठा० ।। ७. 'नहि खलु सहते द्विषः समृद्धिं ' इति पाठा० ।।