________________
१८०
प्रथममथ नतिं विधाय राज्या' -
स्तदनु यशः परिगीय चन्द्रकस्य
निजकनिपुणतां प्रदर्शयन्ती,
त्वरितमरोहदसौ शिरोऽस्य वेणोः २ ।। ४७ ।
शिवकुमरनटो जगाद पुत्रीं,
'स्थिरहृदयोपरि सावधाननेत्रा ।
सपदि दुहितराऽऽतनुं स्वशिल्पं,
चन्द्रराजचरित्रम्
नटकुलजाऽसि कलासु पण्डिताऽसि ।। ४८ ।।
इह हि यदि न ते भवेत् कलायाः,
परिचय एव स नाऽन्यतोऽपि भावी । भवति नटजनस्य भाग्ययोगाद्,
बुधजनमण्डितसत्सभा कदाचित्' ।। ४९ ।।
इति जनकवचो निशम्य बाला,
क्रमुकटे विनिधाय नाभिदेशम् ।
गगनतलगता ननर्त वेणो
रुपरि जवेन + कुलालचक्रवत् सा ।। ५० ।
तदनु नटजनैः' प्रताड्यमाने,
मुरजवरे शिर आनिधाय पूगे ।
मुनिमतिरिव निश्चला स्वतत्त्वे,
चिरतरमास्थित सा मृदुस्वभावा ।। ५१ ।।
१. 'प्रथममथ ननाम सा च राज्ञीं' इति पाठा० ।। २. 'निजकजनकतः प्रलभ्य चाज्ञा - मुपरि समारुरुहे तयाऽस्य वेणोः ।।' इति पाठा० ।। ३. 'स्थिरमनसाऽथ च-' इति पाठा० ।। ४. 'उपरि' इति पाठा० ।। ५. 'सभासु ' इति पाठा० ॥ ६. 'नटगणैः' इति पाठा० ।।