________________
सर्गः - ५
१७९ अधिसभमभवत् तदा जनौघो',
हरिण इवाऽऽशु तदेकतानचित्तः । शिवकुमरनटेश्वरस्तदाऽथोरे,
बहुविधनर्तनमाततान विज्ञः ॥ ४२ ॥ मृगपति-करिणोः करालरूपं
व्यरचयदेष तथा च वाजिनोऽपि । नवनवबहुकौतुकं तदेत्थं,
नटमुकुटः परिदर्शयाञ्चकार ।। ४३ ॥ अवसरमधिगम्य ताम्रचूडं,
कनकमये दृढपञ्जरे निषण्णम् । स्वपतिरिति विचिन्त्य तं प्रगृह्य,
__ नृपदयिता समुपाययौ गवाक्षे ।। ४४ ।। अधिसभमुदरोपयत् तदानीं,
नटवर एष सुदीर्घवेणुदण्डम् । परित इह विधाय शङ्कमस्यो
परि दृढरज्जुभिराबबन्ध तज्ज्ञः ॥ ४५ ॥ तदुपरि समरोपयद् गुवाकुं,
स्थिर परिबन्धनतो १ नटाधिराजः । अदिशदथ पटुः स मञ्ज पुत्रीं,
रतिसदृशीं शिवमालिकाऽभिधानाम् ॥ ४६ ।। १. '-तदाऽतिरागाद्' इति पाठा० ।। २. 'गृहमिव तस्य मनोरमं यथार्थम्' इति पाठा० ।। ३. '-तदादौ' इति पाठा० ।। ४. 'तदानीं' इति पाठा० ।। ५. 'किल पञ्जरे' इति पाठा० ।। ६. 'अधिसभमध्यरोपयत्' इति पाठा० ।। ७. '-च वेणुदण्डमेकम्' इति पाठा० ।। ८. 'विद्वान्' इति पाठा० ।। ९. 'पुगीफलम्सोपारी' इति टि० ।। १०. 'नरा-' इति पाठा० ।। ११. 'नटवरतनया कलाविधिज्ञा' इति पाठा० ।।