________________
१७८
भवति यदि निदेश आशु तेऽहं,
निजपुरुषैः सममारभेऽत्र नाट्यम् ।
तव निरुपममेत्य संप्रसादं,
सपदि ददामि जलाञ्जलीनलक्ष्म्यै ' ।। ३७ ।
इति वचनमसौ निशम्य राज्ञी,
सपदि ददौ नटपुङ्गवाय चाऽऽज्ञाम् ।
अथ नटपुरुषाः समाससञ्जु
र्निजनिजकौशलमाशु बुद्धिमन्तः ।। ३८ ।।
निजमुखकमलं विधुप्रभं ते,
चन्द्रराजचरित्रम्
सपदि विधाय विभूषणाञ्चिताङ्गाः १ ।
ढिगढिगदिति शब्दमारभन्त े,
स्फुरदुरुताडितैढक्कया तदानीम् ।। ३९ ।।
अतिशयमृदुलैः स्वरैः सुगीतिं,
मृदुमृदुमुरजैर्विपञ्चिकाभिः,
लयमधुरां प्रजगुर्नटाश्च केचित् ।
कलमिह संसदि लोककर्णहारि ।। ४० ।।
सरिगमपधनीति सप्तभिस्ते,
नटतिलकाः प्रजगुः स्वरैः सुगानम् ।
विततमिह ययुश्च षट् सुरागा
स्त्रिदशमिता खलु रागिणी च गाने ।। ४१ ।।
१. ' - ञ्चितः सन्' इति पाठा० ।। २. 'शब्दमाततान' इति पाठा० । ३. ' -ताडन-' इति पाठा० ।। ४. ' – प्रजगौ नटश्च कश्चित्' इति पाठा० ।। ५. ' - गायति स्म रागात् ।।' इति पाठा० ।।