________________
सर्गः ५
-
इति सविनयमेष तामुदित्वा,
परिषदमाप्य समास्थित क्षितीशः ।। ३१ ।।
शरशतमितनर्तकैः समेतः,
नृपपरिषदमेत्य वीरमत्याः,
शिवकुमराभिधनर्तकस्तदानीम् ।
सविनयवन्दनमाततान विज्ञः ।। ३२ ॥
'कुत इह समुपागमो नटेश !,
कुटिलकचकलापमादधानः,
त्वमथ समानवयोभिरेभिरेवम् ।
सुरुचिरवेषधरोऽक्षितोषदक्षः " ।। ३३ ।।
इति वचनमसौ निशम्य राज्ञ्याः,
प्रणिगदति स्म नमस्कृतिं विधाय ।
'नृपतिवरनमस्कृते समागां,
धनददिशं प्रतिलोकयन् समन्तात् ।। ३४ ।।
नृपतिगणमरञ्जयं कलाभिः,
१७७
कतिपयलक्षधनं च तौषिकेऽलाम् ।
प्रबलपराक्रमशातितारिवर्गे ! ।। ३५ ॥
तव नगरविलोकनाय चाऽगां,
तव नगरयशो यथैव राज्ञि !,
श्रुतमभितः खलु वर्तते तथैव ।
चिरतरमभिरक्ष निःसपत्ना
मवनिमये ! परिभुङ्क्ष्व राजभोगम् ।। ३६ ।।
' - नर्तकाधिराजः' इति पाठा० ।। २. ' - ऽक्षिलोभकारी' इति पाठा० ।। ३. 'समाददानः' इति पाठा० ।।