________________
१७६
सुमतिसचिव एव ते मदानां
करिण इवाऽस्ति हृतौ मृगाधिराजः " ।। २६ ।।
इति बहुतरभर्त्स्यमानमेनं,
मृदुवचनैः सचिवोऽनुनीय राज्ञीम् ।
कृतबहुविधसत्कृतिं तदैव,
क्षितिपमहो परिमोचयाञ्चकार ।। २७ ।।
सुरभिकुसुमवासितेन वारा
परिमलपरिलुब्धमत्तभृङ्ग
ऽस्नपयदनु प्रशुचिप्रदाय वासः ।
चन्द्रराजचरित्रम्
मलयजचन्दनमर्पयाञ्चकार ।। २८ ।।
बहुविधरसभावितं सुभोज्यं,
नृपतिममुं परिभोज्य वीरमत्याः ।
सविधमधिजगाम तेन सार्द्धं,
क्षितिपतिमेनमुवाच साऽपि राज्ञी ।। २९ ।।
'अयि नृप ! मम शासनं त्वयाऽद्य
प्रभृति समन्तत एव पालनीयम्' ।
इति वचनमसौ निशम्य राज्ञीं,
कृतकरसम्पुट आजगाद भूपः ।। ३० ।
'जननि ! तव न चैव लोपयिष्ये
कमपि निदेशनमाशरीरपातात्' ।
१. ‘मृगेन्द्रकल्पः' इति पाठा० ।। इतोऽग्रे - 'न हि किमु तव दर्शनस्य पूर्व, सृतिमगमन्नगरं मदीयमेतत् । वद नृप ! किमु ते न चाऽत्र लज्जा - भवदयि निस्त्रप मेऽनुधावने वा ('हि' इति पाठा० ) ।।' इति निष्कासितः श्लोको दृश्यते ।। २. 'कदापि' इति पाठा० ।। ३. 'न हि तव शासन -' इति पाठा० ।।