________________
१७४
चन्द्रराजचरित्रम् शरशतहतिविक्षताश्च केचित्,
प्रबलभटाः समराङ्गणे विपन्नाः । उपरिकृतकलापका नटन्तः,
शिखिन इवाऽत्र विरेजुरप्रमत्ताः ।। १६ ।। 'अभवदिह नवावतारमस्मा
कमिति हृदि प्रविचारयन्ति सैन्याः । अतिनिशितमहासिधेनुकेयं,
वरयति नीचकुटुम्बिनीव वीरान् ॥ १७ ॥ रणशिरसि हताश्च केऽपि वीरा,
भुवि पतिताः प्रतिभान्ति रक्तवक्त्राः । अनुभवमिव कुर्वते तदानी
मतिरसवीररसस्य मत्तचित्ताः ।। १८ ।। वहति रुधिर निम्नगा समन्ता
दभरत तासु च योगिनीसमूहः । निजनिजमथ पात्रमाप्तहर्षः,
पिशितमहो परिभक्षयत्यजत्रम् ।। १९ ।। अगमदिह गणः पिशाचकानां',
परिबुभुजे पललं हसन् भटानाम् । बहुरपि पिशिताशनः पतत्री,
गगनतलं परिवृत्य तिष्ठति स्म ।। २० ।। अगमदथ मृगेन्द्रपृष्ठसंस्था,
समरभुवि प्रथितप्रभावदेवी ।
१. 'वीराः' इति पाठा० ।। २. 'खेचरीणां' इति, 'पक्षिणीनां' इति च पाठा० ।। ३. 'वीरमत्याराधिता देवी' इति टि० ।।