________________
सर्गः ५
द्विजगलगतयज्ञसूत्रलक्ष्मी
-
रिव बलवक्षसि वक्रसम्प्रहारात् ।। १० ।।
चलति शरशते भुषुण्डिपाते,
जलधरवृष्टिरिवाऽत्र प्रावृषेण्या |
चणचणदिति शब्दतो बभूव,
स्फुटकवचस्य विभेदनान्नराणाम् ॥। ११ ॥
भवति रणवरेऽतिभीरवो ये,
परबलशस्त्रसमाहता विनेशुः ।
'अयि तव न हि जीवितस्य रक्षा,
वचन भवेदिति गद्यते स्म वीरैः ।। १२ ।
'भवति यदि तवेप्सिता प्रियाया,
अभिनवसङ्गतिराशु शस्त्रजालम् ।
त्यज, निजभवनं व्रजाऽन्यथा नो
भवति पलायनतोऽपि जीवरक्षा' ।। १३ ॥
कतिचिदथ परस्परं विजघ्नुः ',
तुरगगजपदाहताश्च केचिद्,
क्षितितलमापुरनेकशो नृवीराः ।
१७३
रणरजसा रमणं वितेनुर ।। १४ ।।
युयुधिर इह नर्तिताः कबन्धा,
रणशिरसि क्षतविक्षताः कृपाणैः ।
निजतुरगमनेकपस्य दत्सु',
प्रतिविनिवेश्य निजघुराशु शत्रुम् ।। १५ ॥
१. ' विहन्युः' इति पाठा० ।। २. 'दन्तेषु' इत्यर्थः ।।