________________
शासनसम्राट्पूज्याचार्यश्रीविजयनेमिसूरीश्वरपट्टधर पूज्याचार्यश्रीविजयविज्ञानसूरीश्वरपट्टधरप्राकृतविशारद पूज्याचार्यश्री विजयश्रीकस्तूरसूरिप्रणीतं चन्द्रचरित्रे पञ्चमः सर्गः
(पुष्पिताग्रावृत्तम्) तत उभयदलस्य सैन्यसङ्घाः,
परिहतजीवनदेहगेहमोहाः । युयुधिर इह दर्पमत्तसिंह
प्रतिमपराक्रमशालिनो नृवीराः ॥ १ ॥ प्रबलभटबुभुक्षिताक्षराजा,
अरिकरिणः शितखड्गतीक्ष्णदंष्ट्राः । कवलमरचयन् कृतान्तकल्पाः ,
प्रतिभटबाणपराहताश्च केचित् ।। २ ॥ समरपटहनादनादितान्ताः,
श्रुतपटुचारणकीय॑मानकाव्याः । द्विगुणितबलमाप्नुवन्त एते
प्रधनमकार्षुरनन्यकल्पमाशु ॥ ३ ॥ वरयितुमिह कीर्तिरूपलक्ष्मी
मतिशयितैक्यजुषः परस्परं ते । अगणिततनुतापमाप्तशस्त्रा,
उभयभटाः प्रतियोद्धमारभन्त ॥ ४ ॥
१. '-मोहदर्पलेशाः' इति पाठा० ।। २. 'सिंह०' इति टि० ।। ३. 'निशमितचारण-' इति पाठा० ।।