________________
१७०
चन्द्रराजचरित्रम् ये चन्द्रभूपपरिपोषितवीरसङ्घा
स्ते स्युः प्रधानसमये किमहो कृतघ्नाः ?। स्मृत्वा तदीयचरणं सहसैव सर्वा
छत्रून् विहिंस्य भवतां मुदमाशु कुर्मः' । ९८ ॥
(द्रुतविलम्बितवृत्तम्) इति निशम्य वचः सचिवस्तदा,
प्रघनवाद्यमताडयदञ्जसा । सकलसैन्यसमुद्धतविक्रमः, .
प्रतिययौ स रणाय विशालधीः ।। ९९ ।। इति श्रीकस्तूरसूरिविरचिते श्रीचन्द्रचरित्रे
चतुर्थः सर्गः समाप्तः