________________
सर्गः - ४ चन्द्रो न चास्ति यदि जेष्यति नः पुरं स,
वक्त्रं कथं नु भविता जनतासमक्षम् । लोको वदिष्यति न कोऽपि समस्ति वीर,
आभापुरीं रिपुगणादिह रक्षिता यः ।। ९३ ॥ वीरे भवत्यपि भवत्ययमल्पवीर्य,
__ आभापुरीं यदि बलेन वशे विदध्यात् । कीर्तिर्वजिष्यति रसातलमुज्वला द्रा
गद्यावधि स्वभुजविक्रमसगृहीता' ॥ ९४ ।। नैवाऽधुनाऽस्ति ननु वीरमती क्रियाया,
आलोचनस्य समयो, निजवंशकीर्तिम् । आलोक्य शत्रुविजये प्रतिबद्धकक्षा,
यूयं किलाऽद्य भवत प्रविहाय तन्द्राम् ।। ९५ ।। चन्द्रोऽपि तेऽमुमुपकारमवश्यमेव,
स्वान्ते विधास्यति कृतज्ञशिरोमणिः सः । नो कुक्कुटाऽऽकृतिमतोऽपि हतं सुतेज
स्तस्याऽस्ति, केवलमसौ न मनुष्यरूपः" ।। ९६ ।। इत्थं प्रधानवचनं प्रणिशम्य तेऽपि,
__प्रोचुः कृताञ्जलिपुटा विनयादमात्यम् । 'चन्द्रप्रतापमिहिरः सहसैव खण्डं,
खण्डं विधास्यति हि हेमरथं हिमं नु ।। ९७ ।।
१. 'भ्रष्टा भविष्यति तदा भवदीयकीर्तिः ।' इति पाठा० ।। २. -आभापुरीं यदि च जेष्यति तर्हि मन्ये । शेते करी मशकपादविपादिकाया-माजन्म तेऽपयश एतदहो नु तिष्ठेत् ।।' इति पाठा० ।।