SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ १६८ चन्द्रराजचरित्रम् 'युद्धाय हेमरथभूपतिरागतोऽस्ती' त्याश्रुत्य नैव चकितेव बभूव राज्ञी । प्रादर्शयत् किल यथा न हि चाऽऽगतोऽभूत्, किं दुष्करं भवति सत्त्ववतो जनस्य ।। ८८ ।। सद्बुद्धिनामसचिवं रहसीत्थमेषा', ब्रूते स्म 'तेन समितिर्नहि शोभते मे । तुच्छेन युद्धमिह मन्त्रिवर ! त्रपाय, प्रीतिं समेन कथयन्ति विरोधिताञ्च ।। ८९ ॥ पृष्ठं प्रताड्य कथयामि लघु त्वमेव, तं जेष्यसि प्रबलसैन्यसमाजजुष्टः । गत्वा तथा च परिवेष्टय तस्य सैन्यं, ____नाऽसौ पलाय्य समराद्धि यथा प्रणश्येत् ।। ९० ॥ आराधयामि निजदेवमहं, प्रसादाद्, यस्य स्थिरो नहि भविष्यति हेमभूपः । निःसंशयं व्रज निनादय युद्धवाद्यं, सज्जीकुरुष्व सकलं स्वबलं प्रधान !' ।। ९१ ॥ इत्थं निदेशमधिगम्य बहिः समागा दाहूय सैन्यगणपान् युधि लब्धकीर्तीन् । ब्रूते स्म "हेमरथभूपतिरागतोऽस्ति, सैन्यै रणाय बहुभिर्नगरेऽस्मदीये ।। ९२ ॥ १. '-सचिवात् प्रणिशम्य तस्मै' इति पाठा० ।। २. 'योग्येन भाति महतां किल सम्परायः ।।' इति पाठा० ।। ३. '-दाहूय राजसचिवप्रभृतीन् समन्तात्, ।' इति पाठा० ।।
SR No.022620
Book TitleChandra Charitram
Original Sutra AuthorN/A
AuthorVijaychandrasuri
PublisherRander Road Jain Sangh
Publication Year2014
Total Pages356
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy