________________
सर्गः - ४
१६७
अग्रे चकार मदमत्तमहेन्द्रनाग
प्रख्यातवंशजगजान्' गिरिराजकल्पान् ॥८३ ॥ हेषारवं व्यदधुरश्ववराः समन्तात्,
__क्रोशद्वयं बधिरयन्त उदञ्चिनस्ते । इत्थं विशालबलसङ्घयुतश्चचाल,
युद्धाय हेमरथभूमिपतिर्मदान्धः ॥ ८४ ।। भेर्यादिवाद्यनिवहो व्यनदत्, पताका
__श्चित्राश्चतुर्दिशि मरुत्तरला विचेलुः । खड्गस्य भाभिरभवच्छतचन्द्रकल्पा,
द्यौस्तद्बलस्य करपङ्कजवर्तिनो द्राक् ।। ८५ ।। ऊचे स्वसैन्यमथ हेमरथस्तदानीं,
"पश्याऽद्य वाजिगत एव मुहूर्तमध्ये । आभापुरीं स्ववशगां विदधामि, यस्मात्
अग्रे ममाऽस्ति तृणवद्वलमेति कस्याः ।। ८६ ।। मत्सन्निधौ बलवतोऽपि तृणायतेऽरं',
सैन्यं नृपस्य समरेऽचिरतः समन्तात् । तत्किं पुरो मम भवेदबलाजनस्य,
तुच्छं बलं समधियोद्धमये नृवीराः !' ।। ८७ ॥
१.'-वंशजमिभं' इति पाठा० ।। २. '-कल्पम्' इति पाठा० ।। ३. 'उत्प्लवमानाः' इति टी० ।। ४. '-सूर्यकल्पा' इति पाठा० ।। ५. 'हि' इति पाठा० ।। ६. 'किं मे' इति पाठा० ।। ७. 'शक्तो भवेत् पुरत एष कियद्बलो हि ?' इति पाठा० ।। ८. 'हि' इति पाठा० ।।