________________
चन्द्रराजचरित्रम्
पश्याम्यसौ कतिपयैर्दिवसैरिहैति,
सङ्ग्रामरागरसिकस्तव हेमभूपः ।। ७८ ॥ पूर्वं ह्यसौ मम भटैर्विमुखीकृतोऽभूत्,
तद्विस्मृतं खलु मुमूर्षुरसौ विलजः । यावद्ददर्श नहि वीरमतीबलं स,
तावद् रणाय यतते प्रबलोद्धतः सन् ।। ७९ ॥ आभापुरं यदि जिघृक्षति ते महीपः
सत्यां न सम्भवि मयीति विदाङ्करोतु । किन्त्वस्य गच्छति हिमालय एव पूर्वं,
तद् रक्षतु स्वभुजदर्पसमाश्रयेण ॥८० ॥ कीटस्य पक्षजनिरस्त्यवसानहेतु
नों मङ्गलाय, तव भूमिपतेस्तथैव । बुद्धिर्विनाशसमये विपरीतभावं,
संसेवते मम विरोधत एव शीघ्रम्" ।। ८१ ॥ इत्थं मदोद्धतमसौ वचनं निशम्य,
तस्यास्तदैव स ययौ स्वपुरं स दूतः । व्यज्ञापयन्नरपतिं न तया विरोध:
क्षेमाय संभवति भूमिपते ! ऽधुना ते ।। ८२ ॥ दूतस्य वाक्यमवमत्य नृपस्तदैव,
सज्जीचकार निजसैन्यमसौ बलीयान् ।
१. '-मुखं ' इति पाठा० ।। २. '-तन्मयि राजदूत ! ।' इति पाठा० ।। ३. 'तद् रक्षतान्निजबलैरधुना स भूपः ।।' इति पाठा० ।। ४. 'ते भवति' इति पाठा० ।। ५. 'हि' इति पाठा० ।।