________________
सर्गः
-
इत्थं प्रधानवचनं प्रणिशम्य राज्ञी,
हर्षेण तं प्रणिजगाद विशालबुद्धिम् ।
'त्वं सेवकोऽसि मम सर्वत एव मान्यो,
नो ते कदापि वचनं परिलोपयिष्ये' ।। ६२ ।।
तस्याः प्रसादमधिगम्य विचिन्त्यते स्म,
'व्याघ्री मया निजवशेऽक्रियताऽधुना हि' । तावत् सुपञ्जरगतं चरणायुधं तं,
दृष्ट्वा जगाद किल वीरमतीं स मन्त्री ।। ६३ ।।
'देवि ! त्वमेनमिह पञ्जरमध्यसंस्थं,
कृत्वा सदाऽवसि खगं ? किमु देवतां वा' ! । कृत्वा वशे समधिरक्षसि, तद्वदस्व',
श्रुत्वेति साऽपि कपटं प्रविधाय चोचे ॥ ६४ ॥
'वध्वाः प्रमोदनकृते कृकवाकुमेतं,
क्रीत्वा धरामि ननु काञ्चनपञ्जरेऽस्मिन् । भोज्यं जलं यदवधि प्रददामि मन्त्रिन् !,
१६३
स्थास्यत्यसौ तदवधि प्रबलानुरागात् ।। ६५ ।।
प्रातः प्रति प्रतिदिनं परमेश्वरस्य,
ध्यानाय बोधयति मां कृकवाकुरेषः ' ।
श्रुत्वा जगाद सचिवो 'वद राजमात
स्त्वं स्वं यथेच्छमिति विश्वसिमीह नाऽहम् ।। ६६ ।।
क्रीतस्त्वया नहि, न तेऽविदितो ममाऽस्ति,
कोशश्छलं तव समग्रमहं प्रवेद्मि ।
१. ‘-पञ्जरतः किमर्थं, संस्थाप्य रक्षसि खगं ? किमु देवताऽम्बा ।' इति पाठा० ।।