________________
१६४
चन्द्रराजचरित्रम् त्वत्सेवकोऽस्मि नृपमातरतो न मत्त
स्ते गोप्यमस्ति किमपि वचनाऽपि वस्तु ?' ॥ ६७ ॥ श्रुत्वा वचस्तदनु वीरमती जगाद,
'कोशं प्रवेत्सि नहि भूषणमस्मदीयम् । दत्त्वा तदेव कृकवाकुमिमं गृहीतं,
वध्वाः कृते हि मयका सचिवाग्रगण्य ! ।। ६८ ॥ नाऽतः परं वद तदीयवचः पुरो मे',
सम्बोधयामि विजने सुहितं पुनस्त्वाम् । नो चेद् वदिष्यसि पुनः कृकवाकुतुल्यं,
त्वामप्यहं सचिव ! सम्प्रति संविधास्ये' ।। ६९ ॥ इत्थं तदीयवचनं स निशम्य मन्त्री,
___व्यामोहतोऽतिभयमाप्य बभूव तूष्णीम् । तावत् पुरोऽतिरुदतीं प्रददर्श राज
कान्तां गुणाञ्चितमतिं च गुणावली ताम् ।। ७० ॥ सङ्केततः सचिवमित्थमबोधयत् सा
'ऽसौ मे पतिस्तव नृपः कृकवाकुरूपः' । आश्चर्यमाप परिबुध्य न किञ्चिदेवा
ऽगादीद् भयेन सचिवः खलु वीरमत्याः ।। ७१ ॥ 'चन्द्रं व्यधान्नृपवरं कृकवाकुमित्थं,
प्रख्यातिमापदयशः किल वीरमत्याः । राज्यस्य लोभवशतो, भुवने समग्रे,
तस्या भयेन नहि कोऽपि जगाद किञ्चित् ।। ७२ ॥
१. 'सचिवेति विद्धि' इति पाठा० ।। २. 'प्रधान !' इति पाठा० ।।