________________
१६२
चन्द्रराजचरित्रम् आज्ञां सदैव शिरसा कलयन्नमात्य
स्तस्याः प्रधानसचिवः प्रबभूव सद्यः ।। ५६ ॥ सद्बुद्धिरेष सचिवोऽथ कदापि तस्या,
अग्रे छलेन समवोचत सामपूर्वम् । "देवि ! त्वया विहितशासनमेत्य लोक
श्चन्द्रं कदापि नहि संस्मरतीह राज्ये ।। ५७ ॥ मार्गे विलुप्तमपि वस्तु न कोऽपि कस्या
प्यालाति, संरचयते न निदेशभङ्गम् । भूपा बभूवुरपरे न हि ते समानं,
कस्याऽपि शासनमभूदिह राजमातः ! ।। ५८ ।। एवं तवाऽस्ति ननु शासनमत्र येन,
हिंस्त्रैः समं पिबति गौः सलिलान्यभीरुः । चेच्चार्मणं पणमपि व्यवहर्तुमिच्छे?
लातुं न तत्पुरजनो विदधीत शङ्काम् ॥ ५९ ॥ दृष्टा अनेकनृपराजवरा मया ते,
त्वत्सन्निधौ खलु भवन्ति निषादकल्पाः । स्त्रीत्वात् कुरुष्व नहि खेदमये ! नृपत्वे,
पृथ्वीवशीकरणपाटवमादधासि ॥ ६० ॥ वृद्धस्य मस्तकनतिर्भवतीह लोके,
प्रख्यातमेतदिति यत्तदहो, त्वमद्य । लोकान् स्वपादकमले विनमय्य, तेभ्यो
ऽदाः स्वीयमस्तकनतिं ननु वार्द्धकेऽपि" ॥६१ ॥
१. 'चर्माऽपि ते यदि भवेदभिकाङ्कितं तद्' इति पाठा० ।। २. 'नागरजनो' इति पाठा० ।। ३. 'पृथ्वी वशा भवति स्त्रीत्वमथाऽस्ति तत्ते' इति पाठा० ।।