________________
१६१
सर्गः - ४ इत्थं निशम्य सचिवः प्रजगाद 'मात
रङ्गीकरोमि वचनं तव सर्वमेव' । श्रुत्वा प्रधानवचनं प्रजहर्ष, साऽपि,
प्रोचे 'नृपोऽत्र वद वीरमती बभूव ।। ५१ ।। तस्या निदेशमिह यो न करिष्यते स,
वध्यो भवेनृपतिशासनलङ्घनेन । आभापुरी नहि शुभाऽन्तकराजधानी,
स्यादस्य चेतसि जनः स करोत्ववज्ञाम्' ।। ५२ ।। इत्थं निदेशमधिगम्य समस्तपुर्या,
तं डिण्डिमेन सचिवोऽप्युदजूघुषत् सः । संश्रुत्य नागरजना अतिविस्मयेन,
प्रोचुः परस्पर महो किमिदं नवीनम् ? ॥ ५३ ॥ स्त्री स्वामिनी नहि कदाप्यवकर्णिताऽपि,
साऽऽभापुरे समभवन्ननु विस्मयोऽसौ । किञ्चाऽत्र नाशमगमत् पुरुषो हि येन,
स्त्री स्यान्नृपः किल' मुहुर्जगदुः पुरस्था: ।। ५४ ।। तस्या भयेन सचिवस्य निदेशमेते,
___पौराः स्व्यकार्युरनुरागवशान्न लोकाः । स्वाधीनराज्यमधिगम्य बुभोज राज्ञी,
___ नाऽस्या निदेशमिह कोऽपि लुलोप भीते:३ ॥ ५५ ॥ नामाऽपि चन्द्रनृपतेर्यदि कोऽप्यगृह्णात्,
तस्मै कृतान्त इव दण्डमसावयच्छत् । १. 'रम्या च यस्य हृदये, स करोत्ववंज्ञाम् ।।' इति पाठा० ।। २. 'स्त्री स्यान्नृपेति किल नागरिका अवोचत् ।।' इति पाठा० ।। ३. 'लोकः' इति पाठा० ।।'